Table of Contents

<<4-3-80 —- 4-3-82>>

4-3-81 हेतुमनुष्येभ्यो ऽन्यतरस्यां रूप्यः

प्रथमावृत्तिः

TBD.

काशिका

हेतुभ्यो मनुस्येभ्यश्च अन्यतरस्यां रुप्यः प्रत्ययो भवति तत आगतः इत्येतस्मिन् विषये। मनुष्यग्रहणम् अहेत्वर्थम्। हेतुः कारणम्। हेतुभ्यस् तावत् समादागतम् समरूप्यम्, समीयम्। विषमरूप्यम्, विषमीयम्। गहादित्य्वाच् छः। मनुस्येभ्यः देवदत्तरूप्यम्। यज्ञदत्तरूप्यम् दैवदत्तम्। याज्ञदत्तम्। बहुवचनं स्वरूपविधिनिरासार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1104 समादागतं समरूप्यम्. पक्षे - गहादित्वाच्छः. समीयम्. विषमीयम्. देवदत्तरूप्यम्. दैवदत्तम्..

बालमनोरमा

तत्त्वबोधिनी

1127 हेतुमनुष्येभ्यो। मनुष्यग्रहणमहेत्वर्थं, बहुवचनंम तु स्वरूपविधिनिरासार्थम्। समरूप्यमिति। `विभाषा गुणे' इत्यत्र `विभाषे'ति योगविभागादगुणवचनादपि पञ्चमी। योगविभागे तु `बाहुवकं प्रकृतेस्दनुदृष्टे'रिति लिङ्गम्।

Satishji's सूत्र-सूचिः

TBD.