TBD.
अपत्याधिकारादन्यत्र लौकिकं गोत्रम् अपत्यमात्रं गृह्यते। गोत्रप्रत्ययान्तात् प्रातिपदिकादङ्कवत् प्रत्ययविधिर्ब् हवति ततः आगतः इत्येतस्मिन् विषये। अङ्कग्रहणेन तस्य इदम् अर्थसामान्यं लक्ष्यते। तस्माद् वुञतिदिष्यते, न अण्, सङ्घाङ्कलक्षणेष्वञ्यञिञाम् अण् 4-3-127 इति। औपगवानाम् अङ्कः औपगवकः। कापटवकः। नाडायनकः। चारायणकः। एवम् औपगवेभ्य आगतम् औपगवकम्। कापटवकम्। नाडायनकम्। चारायणकम्।
TBD.
–
1438 गोत्रादङ्कवत्। अङ्के ये प्रत्ययास्ते तत आगत इत्यर्थेऽपि भवन्तीत्यर्थः। बिदेभ्य आगतमिति। विग्रहप्रदर्शनम्। अत्र `यञञोश्चे'ति बहुत्वे अञो लुकि `बिदेभ्य' इति निर्देशः। बैदमिति। `सङ्घाङ्कलक्षणेष्वञ्यञिञाम'णित्युक्तरञन्तादिहाप्यर्थे अणि विवक्षिते `गोत्रेऽलुगची'त्यञो लुङ्निवृत्तौ बैदशब्दादण्। `द्व्यजृद्ब्राआहृणे'ति द्व्यज्लक्षणस्य ठकोऽपवादः। गार्गमिति। यञन्तादण्। दाक्षमिति। इञन्तादण्। औपगवकमिति। उपगोरपत्यमौपगवः, तस्मादागतमित्यर्थः। `गोत्रचरणाद्व]ञिति वुञ्। यद्यपि तस्येदमित्यर्थे अयं वुञ्विहितः, तथाप्यञ्यञिञन्तादङ्केऽपि स दृष्ट इति तस्याप्यत्रार्थे अतिदेशो भवति। न हि `सङ्घाङ्के'ति प्रतिपदोक्तस्याऽण एवात्राऽतिदेशः, किं तु अङ्के दृष्टस्य सर्वस्यापि, व्याख्यानादिति भावः।
1126 गोत्रादङ्कवत्। `अपत्याधिकारादन्यत्र लौकिकं गोत्र'मित्युक्तम्। अपत्यप्रत्ययान्तात् `तत आगतः'इत्यस्मिन्नर्थे अङ्कवत्प्रत्ययाः स्युः। अङ्के दृष्टस्य सर्वस्यायमतिदेशो, न तु साक्षाद्विहितस्यैवेत्याग्रहः, तेन `गोत्रचरणाद्वु'ञिति वुञपि लभ्यते। स हि `तस्येद'मिति सामान्येन विधीयमानोऽपि अञ्यञिञन्तादन्यत्र अङ्केऽपि दृष्टः। वेदमित्यादि। सङ्घाङ्के'त्यादिना अङ्कार्थेऽण्विहित इतीहाप्यञ्यञिञन्तादण्। औपगवकमिति। `गोत्रचरणा'दिति वुञ्। अङ्के दृष्ट इतीहाप्यण्णन्ताद्वुञ्।
TBD.