Table of Contents

<<4-3-75 —- 4-3-77>>

4-3-76 शुण्डिकादिभ्यो ऽण्

प्रथमावृत्तिः

TBD.

काशिका

शुण्डिक इत्येवम् आदिभ्यः प्रातिपदिकेभ्यः अण् प्रत्ययो भवति ततः आगतः इत्येतस्मिन् विषये। आयस्थानठको ऽपवादः। शुण्डिकादागतः शौण्डिकः। कार्कणः। अण्ग्रहणं बाधकबाधनार्थम्। औदपानः। शुण्डिक। कृकण। स्थण्डिल। उदपान। उपल। तीर्थ। भूमि। तृण। पर्ण। शुण्दिकादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1434 शुण्डिकादिभ्योऽण्। `तत आगत' इत्येव। शुण्डिकमायस्थानविशेषः। पूर्वसूत्रविहितठगपवादः। कार्कण इति। `कृकणादागत' इति शेषः। `कृकणपर्णाद्भारद्वाजे' इति छस्यापवादः। तैर्थ इति। धूमादिवुञोऽपवादः। औदपान इति। अत्र उत्सादित्वादञ्प्राप्तो न भवति, पुनरण्ग्रहणात्। अन्यथा यथाप्राप्तविधाने आयस्थानठकं बाधित्वा अञेव स्यात्।

तत्त्वबोधिनी

1123 छादीनां चेति। कार्कण इथ्यत्र `कृकणपर्णाद्भारद्वाजे'इति छः प्राप्तः। तीर्थशब्दात्तु धूमादित्वाद्वुञ्प्राप्तः। उजपानशब्दस्योत्सादित्वदञ्प्राप्त इत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.