Table of Contents

<<4-3-76 —- 4-3-78>>

4-3-77 विद्यायोनिसम्बन्धेभ्यो वुञ्

प्रथमावृत्तिः

TBD.

काशिका

विद्यायोनिकृतः सम्बन्धो येषां ते विद्यायोनिसम्बन्धाः। तद्वाचिभ्यः शब्देभ्यो वुञ् प्रत्ययो भवति तत आगतः इत्येतस्मिन् विषये। अणो ऽपवादः। छं तु परत्वाद् बाधते। विद्यासम्बन्धेभ्यस् तावत् उपाध्यायादागतं औपाध्यायकम्। शौष्यकम्। आचार्यकम्। योनिसम्बन्धेभ्यः मातामहकः। पैतामहकः। मातुलकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1103 औपाध्यायकः. पैतामहकः..

बालमनोरमा

1435 विद्यायोनि। `तत आगत' इत्येव। औपाध्यायकः, पैतामहक इति। उपाध्यायात्पितामहाच्च आगत इत्यर्थः।

तत्त्वबोधिनी

1124 विद्यायोनि। विद्यायोनिकृतः संबन्धो येषां तेभ्यो वुञ्स्यात्। अणोऽपवादः। छं तु परत्वाद्बाधते। आचार्यकः। मातामहकः। मातुलकः।

Satishji's सूत्र-सूचिः

TBD.