Table of Contents

<<4-3-6 —- 4-3-8>>

4-3-7 ग्रामजनपद एकदेशादञ्ठञौ

प्रथमावृत्तिः

TBD.

काशिका

दिक्पूर्वपदातित्येव। ग्रामएकदेशवाचिनो जनपदएकदेशवाचिनश्च प्रातिपदिकाद् दिक्पूर्वपदादर्धान्तादञ्ठञौ प्रत्ययौ भवतः शैषिकौ। यतो ऽपवदौ। इमे खल्वस्माकं ग्रामस्य जनपदस्य वा पौर्वार्धः, पौर्वार्धिकाः। दाक्षिणार्धाः, दाक्षिणार्धिकाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1357 ग्रामजनपद। ननु अञ् चेत्येतावतैव चकाराट्ठञोऽनुकर्षसिद्धेः ठञ्ग्रहणं व्यर्थमित्यत आह–ठञ्ग्रहणमिति। ननु अञ् चेत्युक्तेऽपि चकाराट्ठञोऽनुकर्षः स्पष्ट एवेत्यत आह–अञ्चेत्युक्त इत्यादि।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.