Table of Contents

<<4-3-6 —- 4-3-8>>

4-3-7 ग्रामजनपद एकदेशादञ्ठञौ

प्रथमावृत्तिः

TBD.

काशिका

दिक्पूर्वपदातित्येव। ग्रामएकदेशवाचिनो जनपदएकदेशवाचिनश्च प्रातिपदिकाद् दिक्पूर्वपदादर्धान्तादञ्ठञौ प्रत्ययौ भवतः शैषिकौ। यतो ऽपवदौ। इमे खल्वस्माकं ग्रामस्य जनपदस्य वा पौर्वार्धः, पौर्वार्धिकाः। दाक्षिणार्धाः, दाक्षिणार्धिकाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1357 ग्रामजनपद। ननु अञ् चेत्येतावतैव चकाराट्ठञोऽनुकर्षसिद्धेः ठञ्ग्रहणं व्यर्थमित्यत आह–ठञ्ग्रहणमिति। ननु अञ् चेत्युक्तेऽपि चकाराट्ठञोऽनुकर्षः स्पष्ट एवेत्यत आह–अञ्चेत्युक्त इत्यादि।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.