Table of Contents

<<4-3-67 —- 4-3-69>>

4-3-68 क्रतुयज्ञेभ्यश् च

प्रथमावृत्तिः

TBD.

काशिका

क्रतुभ्यो यज्ञेभ्यश्च व्याख्यातव्यनमभ्यः प्रातिपदिकेभ्यः भवव्याख्यानयोरर्थयोः ठञ् प्रत्ययो भवति। अणो ऽपवादः। क्रतुभ्यस् तावत् अग्निष्टोमस्य व्याख्यानः, तत्र भवः आग्निष्टोमिकः। वाजपेयिकः। राजसूयिकः। यज्ञेभ्यः पाकयज्ञिकः। नावयज्ञिकः। अनन्तोदात्तार्थ आरम्भः। क्रतुभ्यः इत्येव सिद्धे यज्ञग्रहणम् असोमयागेभ्यो ऽपि यथा स्यात्। पाञ्चौदनिकः। दाशौदनिकः। बहुवचनं स्वरूपविधिनिरासार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1426 क्रतुयज्ञेभ्यश्च। सोमेति। सोमलताद्रव्यकयोगेषु क्रतुशब्दो यज्ञशब्दश्च प्रसिद्ध इत्यर्थः। तह्र्रन्तरग्रहणं व्यर्थं, बहुवचनेन स्वरूपग्रहणनिवृत्तेरित्यत आह–तत्रेति। गृह्रन्त इति। ततश्च इह क्रतुशब्देन सोमयागाः, यज्ञशब्देन तदितरयागा विवक्षिता इति भावः। एवंच सोमयागविशेषवाचिभ्यस्तदितरयागविशेषवाचिभ्यश्च उक्तविषये ठछञित्यर्थः। पाकयाज्ञिक इति। औपासनाग्निसाध्याः पार्वणस्थालीपाकादयः–पाकयज्ञाः। तेषां व्याख्यानो ग्रन्थः, तेषु भव इति वार्थः। नावयज्ञिक इति। नूतनद्रव्यक आग्रयणाख्यो यज्ञो नवयज्ञः। ननु पूर्वसूत्रेम सिद्धे किमर्थमिदमित्यत आह– अन्तोदात्तार्थ इति। वाचपेयशब्दो मध्योदात्तस्तैत्तिरीयादौ प्रसिद्धः। यद्यपि अग्निष्टोमशब्दोऽन्तोदात्त एव तैत्तिरीये दृष्टः। नवयज्ञशब्दोऽपि षष्ठीसमासः समासस्वरेणान्तोदात्त एव, तथापि अन्यार्थमिदमन्तोदात्तेष्वपि परत्वात् प्रवर्तत इति न दोषः।

तत्त्वबोधिनी

1116 क्रतुयज्ञेभ्यश्च। अग्निष्टोमस्य व्याख्यान इति। अग्निष्टोमाद्यर्थेषु मन्त्रब्राआह्?मणकल्पेषु वर्तमाना अग्निष्टोमादिशब्दा इहोदाहरणं, ग्रन्थनामेव व्याख्येयताया उक्तत्वादित्याहुः। स्तुतिः—स्तोमः। अग्नेः स्तोमोऽस्मिन्निति बहुव्राहिः। `परादिश्च परान्तश्चे'त्यन्तोदात्तोऽयम्। पीयतेऽस्मिन्निति पेयः। `कृत्यल्युटो बहुल'मित्यधिकरणे यत्। वाजो नाम यवागूभेदस्तस्य पेयो वाजपेयः। अयं हि कृदत्तरपदप्रकृतिस्वरेण मध्योदात्तः। पेयशब्दस्य `यतो नावः'इत्युदात्तत्वात्। राज्ञा क्षत्रियेण सूयते, राजा सोमः सूयते अत्रेति वा राजसूयः। `राजसूयसूर्ये'ति क्यप्। तत एव निपातनात्समासः, षष्ठीसमासे वा। अयमप्युत्तरपदप्रकृतिस्वरेण मध्योदात्त एव। धातुस्वरेण सूयशब्दस्याद्युदात्तत्। असोमकेभ्य उदाहरति–पाकेति। अल्पपर्यायः—पाकशब्दः। पाकश्चासौ यज्ञश्चेति कर्मधारयः। स च समासस्वरेणान्तोदात्तः। नवैव्र्रीहिभिर्यजनं नवयज्ञः—-आग्रयणम्। `यजयाचविच्छे'ति नङ्। `कर्तृकरणे कृते'ति समासः। कृदुत्तरपदप्रकृतिस्वरेणाऽन्तोदात्तः। अनन्तोदात्तार्थ इति। वाजपेयराजसूयार्थतया अस्मिन्नारब्धे सत्यन्तोदात्तादपि यज्ञाभिधायिनः परत्वादनेनैव भाव्यमित्याग्निश्टोमिक इत्याद्युदाह्मतमिति भावः।

Satishji's सूत्र-सूचिः

TBD.