Table of Contents

<<4-3-63 —- 4-3-65>>

4-3-64 अशब्दे यत्खावन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

वर्गान्तातित्येव। शब्दादन्यस्मिन् प्रत्ययार्थे वर्गान्तात् प्रातिपदिकादन्यतरस्यां यत्खौ प्रत्ययौ भवतः तत्र भवः इत्येतस्मिन् विषये। छे प्राप्ते वचनम्। पक्षे सो ऽपि भवति। वासुदेववर्ग्यः, वासुदेववर्गीणः, वासुदेववर्गीयः। युधिष्ठिरवर्ग्यः, युधिष्ठिरवर्गीणः, युधिष्ठिरवर्गीयः। अशब्दे इति किम्? कवर्गीयो वर्णः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1422 अशब्दे। `वर्गान्ताच्छः' इति शेषः। मद्वर्ग्यः मद्वर्गीण इति। मत्पक्षे भव इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.