TBD.
अव्ययीभावातित्येव। अन्य्तःशब्दो विभक्त्यर्थे समस्यते। अतपूर्वपदातव्ययीभावाट् ठञ् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। अणो ऽपवादः। आन्तर्वेश्मिकम्। आन्तर्गेहिकम्। समानशब्दाद् ठञ् वक्तव्यः। समाने भवं सामानिकम्। तदादेश्च। सामानग्रामिकम्। सामानदेशिकम्। अध्यात्मादिभ्यश्च। आध्यात्मिकम्। आधिदैविकम्। आधिभौतिकम्। अध्यात्मादिराकृतिगणः। ऊर्ध्वन्दमाच् च ठञ् वक्तव्यः। और्ध्वन्दमिकः। ऊर्ध्वशब्देन समानार्थ ऊर्ध्वन्दमशब्दः। ऊर्ध्वदेहाच् च। और्ध्वदेहित्कम्। लोकोत्तरपदाच् च। ऐहलौकिकम्। पारलौकिकम्। मुखपार्श्वशब्दाभ्यां तसन्ताभ्यामीयः प्रत्ययो वक्तव्यः। मुखतीयम्। पार्श्वतीयम्। जनपरयोः कुक् च। जनकीयम्। परकीयम्। मध्यशब्दादीयः। मध्यीयः मण्मीयौ च प्रत्ययौ वक्तव्यौ। माध्यमम्। ंध्यमीयम्। मध्यो मध्यं दिनण् च अस्मात्। मध्ये भवं माध्यन्दिनम्। स्थम्नो लुग् वक्तव्यः। अश्वत्थामा। अजिनान्ताच् च। वृकाजिनः। सिंहाजिहः। समानस्य तदादेश्च अध्यात्मादिषु च इष्यते। ऊर्ध्वन्दमाच्च देहाच्च लोकोत्तरपदस्य च। मुखपार्श्वतसोरीयः कुग्जनस्य परस्य च। ईयः कार्यो ऽथ मध्यस्य मण्मीयौ प्रत्ययौ तथा। मध्यो मध्यं दिनण् च अस्मात् स्थाम्नो लुगजिनात् तथा।
TBD.
–
1416 अन्तःपूर्वपदाट्ठञ्। अन्तर्वेश्ममिति। विभक्त्यर्थेऽव्ययीभावः। `अनश्चे'ति टच्। आन्तर्वेश्मिकमिति। ठञ्। इकः। सुब्लुक्। टिलोपः। आदिवृद्धिः। आन्तर्गणिकमिति। गणे इत्यन्तर्गणम्। तत्र भवमित्यर्थः। आध्यात्मिकमिति। आत्मनीत्यध्यात्मम्। तत्र भवमित्यर्थः। \र्\नाध्यात्मिकमिति। आत्मनीत्यध्यात्मम्। तत्र भवमित्यर्थः।
1112 अन्तः पूव। अन्तर्वेश्ममिति। `नपुंसकादन्यतरस्या 'मिति समासान्तष्टच्।\र्\नध्यात्मादेष्ठञिष्यते। अध्यात्ममिति। `अनश्चे'ति टच्।
TBD.