TBD.
अव्ययीभावसंज्ञाकात् प्रातिपदिकाच् च ञ्यः प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। अणो ऽपवादः। न च सर्वस्मादव्ययीभावाद् भवति, किं तर्हि, परिमुखादेः। परिमुखादीनां च गणपाठस्य एतदेव प्रयोजनम्। तेषां विशेषणम् अव्ययीभावग्रहणम्। परिमुखं भवं पारिमुखम्। पारिहनव्यम्। परिमुखादेरन्यत्र न भवति, औपकूलम्। परिमुख। परिहनु। पर्योष्ठ। पर्युलूखल। परिसीर। अनुसीर। उपसीर। उपस्थल। उपकलाप। अनुपथ। अनुखड्ग। अनुतिल। अनुशीत। अनुमाष। अनुयव। अनुयूप। अनुवंश।
TBD.
–
1415 अव्ययीभावाच्च। `ञ्य' इति शेषः।\त् भाष्ये न दृष्टं, तथापि दिगदिगणपाठानन्तरं परिमुखादिगणपाठसामथ्र्यादिहाव्ययीभावपदं परिमुखादिपरमिति गम्यते। न ह्रष्टाध्याय्यां परिमुखादिगणस्य कार्यान्तरमस्ति। औपकूल इति। उपकूलं भव इत्यर्थः। अव्ययीभावत्वेऽपि परिमुखाद्यनन्तर्भावान्न ञ्यः।
1111 अव्य। परिमुखमिति। यदि परिशब्दादिह वर्जनं गम्यते, तदा`अपपरिबहिरञ्चवः पञ्चम्ये'त्यब्ययीभावः। यदि तु सर्तोभावः, तदा त्वस्मादेव निपातनादब्ययीभाव इत्याहुः। दिगादिगणानन्तेरं परिमुख, परिहनु, पर्याष्ठ, पर्युलूखलेत्यादि परिमुखाः दिगणः पट\उfffद्ते, तत्साहचर्यादिह सूत्रेऽव्ययीभावशब्देन परिमुखादिरेव गृह्रते। तस्य गणस्. कार्यान्तराऽभावादिति। नन्वेवं `परिमुखादे'रिति सूत्रं विशिष्यैव क्रियतां, किमनेन प्रयासेन?। उत्तरत्र `अव्ययीभावा'दित्यस्यापेक्षायमपि तत्रैव तत्करणौचित्यादिति चेत्। अतारिह हरदत्तः—`परिमुखादेः'इत्युच्यमाने बहुव्रीहितत्पुरुषेभ्योऽपि ञः स्यात्, अव्ययीभावग्रहणात्तु तेभ्योऽणेव भवतीति। परिमुखादिगणे प्रतिशाखशब्दोऽपि बोध्यः। तथा च`शाखृ व्याप्तौ'इति धातौ प्रतिशाखं भवं प्रातिशाख्यम्। `अव्ययीभावाच्चे'ति भवार्थे ञ इति माधवः।
TBD.