Table of Contents

<<4-3-57 —- 4-3-59>>

4-3-58 गम्भीराञ् ञ्यः

प्रथमावृत्तिः

TBD.

काशिका

गम्भीरशब्दाद् ञ्यः प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। अणो ऽपवादः। गम्भीरे भवं गाम्भीर्यम्। बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम्। बाह्यम्। दैव्यम्। पाञ्चजन्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1414 गम्भीराञ्ञ्यः। गाम्भीर्यमिति। यञ्विधौ तु स्त्रियां `प्राचां ष्फः तद्धितः' इति ष्फः स्यात्।

तत्त्वबोधिनी

1110 गम्भीराञ्ञ्यः। पञ्तजनादुपसङ्ख्यानम्। पाञ्चजन्यम्।

Satishji's सूत्र-सूचिः

TBD.