Table of Contents

<<4-3-56 —- 4-3-58>>

4-3-57 ग्रीवाभ्यो ऽण् च

प्रथमावृत्तिः

TBD.

काशिका

ग्रीवाशब्दादण् प्रत्ययो भवति, चकाराड् ढञ् च, तत्र भवः इत्येतस्मिन् विषये। शरीरावयवाद् यतो ऽपवादः। ग्रीवासु भवं ग्रैवम्, ग्रैवेयम्। ग्रीवाशब्दो धमनीवचनस् तासां बहुत्वाद् बहुवचनं कृतम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1413 ग्रीवाभ्योऽण् च। `शरीरावयवाच्चे'ति यतोऽपवादः। ग्रीवाशब्दोऽयं धमनीसङ्गे वर्तते। तत्र उद्भूतावयवभेदसङ्गविवक्षायां बहुवचनान्तात्प्रत्यय इति सूचयितुं बहुवचनम्। तिरोहितावयवभेदविवक्षायां तु एकवचनान्तादप्यण्ढञौ स्त एव।

तत्त्वबोधिनी

1109 ग्रीवाभ्योऽण् च। `शरीरावयवाच्चे'ति यतोऽपवादः। ग्रीवाशब्दो धमनीसङ्घाते वर्तते। तत्र उद्भूतावयवसङ्घातविवक्षया सूत्रे बहुवचनम्। तिरोहितावयवसङ्घातविवक्षायां त्वेकवचनान्तादप्यण्ढञौ स्त एव। ग्रैवेयमित्यादि। ग्रीवासु भवं, ग्रीवायामिति वा विग्रहः।

Satishji's सूत्र-सूचिः

TBD.