Table of Contents

<<4-3-55 —- 4-3-57>>

4-3-56 दृतिकुक्षिकलशिवस्त्यस्त्यहेर् ढञ्

प्रथमावृत्तिः

TBD.

काशिका

दृत्यादिभ्यः प्रातिपदिकेभ्यः ढञ् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये। दृतौ भवं दार्तेयम्। कौक्षेयम्। कालशेयम्। वास्तेयम्। आस्तेयम्। आहेयम् अजरं विषम्। अस्तिशब्दः प्रातिपदिकं, न तिङन्तः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1412 दृतिकुक्षि। भव इत्यर्थे दृति, कुक्षि, कलशि, वस्ति, अस्ति, अहि–इत्येभ्यः। `सप्तम्यन्तेभ्यः' इति शेषः। दार्तेयमिति। दृतौ भवमित्यर्थः। ढञ्, एयः, आदिवृद्धिः, रपरत्वम्। दृतिश्चर्मभस्त्रिका। कौक्षेयमिति। दूमादित्वाद्वुञि प्राप्ते ठञ्। कलिशिर्घटः। `कलशिर्मथनपात्र'मित्यमरव्याख्यातारः। `वस्तिर्नाभेरधो द्वयो'रित्यमरः। तत्र भवो बास्तेयः। अस्तीति विभक्तिप्रतिरूपककमव्ययम् सत्तायां घने चेति न्यासकारो हरदत्तश्च। तत्र भव आस्तेयः। अहिः-सर्पः, तत्रभवः-आहेयः।

तत्त्वबोधिनी

1108 दृतिकुक्षि। दृतिश्चर्मकारः, शरीरावयवविशेषश्च। कुक्षिशब्दो धूमादिस्ततो `धूमादिभ्यश्चे'ति वुञि प्राप्तेऽनेन ढञ्। कलशिः–मन्थापात्रं।`कलशिमुदधिगुर्वी बल्लवा लोडयन्ति'इति माघः। `बस्तिर्नाभेरधो द्वयोः'इत्यमरः। तत्र भवं वास्तेयम्। `अस्ती'ति तिङन्तप्रतिरूपको निपातः। स च तिङन्तेन समानार्थो भिन्नर्थश्च। आद्यो यथा—अस्तिक्षीरा गौः। द्वितीयो यथा,–अस्तिमान्। धनवानित्यर्थः। तदिहाऽविशेषादुभयोरपि ग्रहणमास्थेयमिति हरदत्तः। अहौ भवमाहेयम्।`त्रिष्वाहेयं विषास्थ्यादी'त्यमरः।

Satishji's सूत्र-सूचिः

TBD.