Table of Contents

<<4-3-49 —- 4-3-51>>

4-3-50 संवत्सराऽग्रहायणीभ्यां ठञ् च

प्रथमावृत्तिः

TBD.

काशिका

संवत्सराऽग्रहायणीशब्दाभ्यां ठञ् प्रत्ययो भवति, चकाराद् वुञ् च देयम् ऋणम् इत्येतस्मिन्नर्थे संवत्सरे देयम् ऋणं सांवत्सरिकम्, सांवत्सरकम्। आग्रहयणिकम्, आग्रहायणकम्। वा इति वक्तव्ये ठञ्ग्रहणं सन्धिवेलादिषु संवत्सरात् फलपर्वणोः इति पठ्यते, तत्र फले ऋणत्वेन विवक्षिते ऽणं बाधित्वा ठञेव यथा स्यातिति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1404 संवत्सराग्रहायणीभ्यां ठञ्च। `देयमृण'मित्यर्थे सप्तम्यन्ता'दिति शेषः। सन्धिवेलादिगणे `संवत्सरात्फलपर्वणोः' इति पठितम्। तत्र फले देयर्णत्वेन विवक्षिते प्राप्तोऽण् अनेन ठञा बाध्यते।

तत्त्वबोधिनी

1103 संवत्स। ठञ्चेति। `संवत्सराग्रहाणीभ्यां वे'त्येव सुवचम्। न च `वे'ति वक्तव्ये ठञ्ग्रहणं व्यर्थं, सन्धिवेलादिषु `संवत्सरात्फलापर्वणो'रिति पठ\उfffद्ते, तत्र फले ऋणत्वेन विवक्षितेऽणं बाधित्वा ठञेव यथा स्यादिति

प्रथमावृत्तिः

TBD.

काशिका

दावुक्तमिति वाच्यं, तस्मै हितास्तद्धिता इत्यन्वर्थसंज्ञाकरणबलेनाऽत्राण्प्रत्ययो न भवेदिति वक्तुं शक्यत्वादिति नव्याः।

Satishji's सूत्र-सूचिः

TBD.