Table of Contents

<<4-3-48 —- 4-3-50>>

4-3-49 ग्रीष्मावरसमाद् वुञ्

प्रथमावृत्तिः

TBD.

काशिका

ग्रीष्म अवरसमशब्दाभ्यां वुञ् प्रत्ययो भवति देयम् ऋणम् इत्येतस्मिन्नर्थे। अण्ठञोरपवादः। ग्रीष्मे देयम् ऋणं ग्रैष्मकम्। आवरसमकम्। प्रत्ययान्तरकरणं वृद्ध्यर्थम्। समाशब्दो वर्षपर्यायः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1403 ग्रीष्मावरसमाद्वुञ्। समाशब्दो वत्सरे नित्यस्त्रीलिङ्गबहुवचनः। ग्रीष्म अवरसमा अनयोः समाहारद्वन्द्वात्पञ्चमी। तत्र देयमृणमित्यर्थे आभ्यां वुञित्यर्थः। आवरसमकमिति। अवरासु समासु देयमृणमित्यर्थः। `तद्धितार्थ' इति समासः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.