Table of Contents

<<4-3-48 —- 4-3-50>>

4-3-49 ग्रीष्मावरसमाद् वुञ्

प्रथमावृत्तिः

TBD.

काशिका

ग्रीष्म अवरसमशब्दाभ्यां वुञ् प्रत्ययो भवति देयम् ऋणम् इत्येतस्मिन्नर्थे। अण्ठञोरपवादः। ग्रीष्मे देयम् ऋणं ग्रैष्मकम्। आवरसमकम्। प्रत्ययान्तरकरणं वृद्ध्यर्थम्। समाशब्दो वर्षपर्यायः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1403 ग्रीष्मावरसमाद्वुञ्। समाशब्दो वत्सरे नित्यस्त्रीलिङ्गबहुवचनः। ग्रीष्म अवरसमा अनयोः समाहारद्वन्द्वात्पञ्चमी। तत्र देयमृणमित्यर्थे आभ्यां वुञित्यर्थः। आवरसमकमिति। अवरासु समासु देयमृणमित्यर्थः। `तद्धितार्थ' इति समासः।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.