TBD.
कालातित्येव। कलापिनश्वत्थ यवबुस इत्येतेभ्यः कालवाचिभ्यः सप्तमीसमर्थेभ्यो देयम् ऋणम् इत्येतस्मिन्नर्थे वुन् प्रत्ययो भवति। कलाप्यादयः शब्दाः साहचर्यात् काले वर्तन्ते। यस्मिन् काले मयूशः कलापिनो भवन्ति स कलापी। यस्मिनश्वत्थाः फलन्ति सो ऽश्वत्थः। यस्मिन् यवबुसं सम्पद्यते स यवबुसशब्देन उच्यते। कलापिनि काले देयम् ऋणम् कलापकम्। अश्वत्थकम्। यवबुसकम्।
TBD.
–
1402 कलाप्य\उfffदात्थ। कलापिन्, अ\उfffदात्थ, यवबुस–एभ्यः कालवाचिभ्यः सप्तम्यन्तेभ्यो देयमृणमित्यर्थे वुन्स्यादित्यर्थः। कलापकमिति। वुन्। अकादेशः। `नस्तद्धिते' इति टिलोपः। अ\उfffदात्थ इति। विकारप्रत्ययस्य फले लुगिति भावः। अ\उfffदात्थशब्दस्य प्लक्षादित्वे तु ततः `प्लक्षादिभ्योऽ'णिति फले अणो विधानसामथ्र्याल्लुगभावे अ\उfffदात्थशब्दः फले लाक्षणिक इति भावः।
1102 कलाप्य। अ\उfffदात्थ इति। `फले लुक्'। इह पुंलिङ्गनिर्देशो यद्यप्ययुक्तस्तथापि फले अ\उfffदात्थशब्द औपचारिक इत्याशयेन पुंलिङ्गप्रयोग इत्याहुः।
TBD.