Table of Contents

<<4-3-44 —- 4-3-46>>

4-3-45 आश्वयुज्या वुञ्

प्रथमावृत्तिः

TBD.

काशिका

आश्वयुजीशब्दात् वुञ् प्रत्ययो भवति उप्ते ऽर्थे। ठञो ऽपवादः। आश्वयुज्यामुप्ताः आश्वयुजकाः माषाः। अश्विनीभ्यां युक्ता पौर्णमासी आश्वयुजी। अश्विनीपर्यायो ऽश्वयुक्शब्दः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1399 आ\उfffदायुज्या वुञ्। तत्रोप्य इत्येव। सप्तम्यन्तादा\उfffदायुजीशब्दादुप्तेऽर्थे वुञ्स्यादित्यर्थः। ठञोऽपवाद इति। `कालाट्ठ'ञिति विहितस्येत्यर्थः। आ\उfffदायुजका इति। अ\उfffदायुग्भ्यां युक्ता पौर्णमासी आ\उfffदायुजी, तत्रोप्ता इत्यर्थः।

तत्त्वबोधिनी

129 व्यपेक्षायामिति। `इदं सर्पिष्कुण्डिकाया'इत्यत्रेत्यर्थः। अत्र `सर्पि'रित्यसमस्तं पदमिति बोध्यम्। समासे तु `नित्यं समासे' इत्यनेन सिद्धे समासाऽभावमेव ज्ञापयितुमिदमिति सपिर्विशेषणमुक्तम्। नित्यार्थश्चेति। अयं भावः- असमासे व्यपेक्षाविरहेऽत्यन्ताप्राप्तौ नित्यतया षत्वार्थः पाठं, व्यपेक्षायां त्वसमासे `इसुसोः' इति विकल्पेन प्राप्तौ नित्यार्थ इति।

Satishji's सूत्र-सूचिः

TBD.