Table of Contents

<<4-3-42 —- 4-3-44>>

4-3-43 कालात् साधुपुष्प्यत्पच्यमानेषु

प्रथमावृत्तिः

TBD.

काशिका

तत्र इत्येव कालविशेषवाचिभ्यः सप्तमीसमार्थेभ्यः साध्वादिष्वर्थेषु यथाविहितं प्रत्ययो भवति। हेमन्ते साधुः हैमन्तः प्राकारः। शैशिरमनुलेपनम्। वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः। ग्रैष्म्यः पाटलाः। शरदि पच्यन्ते शारदाः शालयः। ग्रैष्म यवाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1398 उप्ते च। तत्रेत्येव। कालवाचिनः सप्तम्यन्तादुप्तेऽर्थे यथाविहितं प्रत्ययाः स्युः। उप्यन्त इति। `डु वप् बीजसन्ताने'। भूतकालस्त्वविवक्षित इति भावः।

तत्त्वबोधिनी

1098 कालात्। `पुष्य'दिति दैवादिकः शत्रन्तः। तदाह–पुष्प्यन्तीति।

Satishji's सूत्र-सूचिः

TBD.