Table of Contents

<<4-3-41 —- 4-3-43>>

4-3-42 कोशाड् ढञ्

प्रथमावृत्तिः

TBD.

काशिका

कोशशब्दात् ठञ् प्रत्ययो भवति तत्र सम्भूते इत्यस्मिन् विषये। अणो ऽपवादः। कोशे सम्भूतं कौशेयं वस्त्रम्। रूढिरेषा, तेन क्रिमौ न भवति, खङ्गकोशाच् च।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1094 कौशेयम् वस्त्रम्..

बालमनोरमा

1396 कोशाड्ढञ्। कौशेयं वस्त्रमिति। कृमिविशेषकोशस्य विकार इत्यर्थः। `विकारे कोशाड्ढ'ञिति वार्तिकात्।

तत्त्वबोधिनी

1097 केशात्। कौशेयमिति। वस्त्रविशेषे योगरूढोऽयम्। कोशे संभवस्तु सत्कार्यवादाभिप्रायेण। मतान्तरे तु विकारप्रकरणे `एण्या ढ'ञित्यस्यानन्तरं `कोशाच्चे'ति पठितव्यम्। तथा च वार्तिकं `विकारे कोशाड्ढञ', संभूते ह्रार्थानुपपत्ति'रिति।

Satishji's सूत्र-सूचिः

TBD.