Table of Contents

<<4-3-40 —- 4-3-42>>

4-3-41 सम्भूते

प्रथमावृत्तिः

TBD.

काशिका

तत्र इत्येव। सप्तमीसमर्थाद् ङ्याप्प्रातिपदिकात् सम्भूते इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। अवक्लृप्तिः प्रमाणानतिरेकश्च सम्भवत्यर्थः इह गृह्यते, न उत्पत्तिः सत्ता वा, जातभवाभ्यां गतत्वात्। स्रुघ्ने सम्भवति स्रौघनः। माथुरः। राष्ट्रियः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1093 स्रुग्घ्ने संभवति स्रौग्घ्नः..

बालमनोरमा

1395 संभूते। तत्रेत्येव। सप्तम्यात्सम्भूतेऽर्थेऽणादयो घादयश्च यथातं स्युरित्यर्थः। संभवः-संभावना।

तत्त्वबोधिनी

1096 संभूते। इह तन्त्रादिना संभावना, अधारपरिमाणादाधेयस्यानतिरेकश्चेति द्वयमप्याश्रीयते। रुआऔग्घ्न इति। रुआउग्घ्ने संभाव्यते, तत्परिमाणानतिरिक्तो वा सेनादिरित्यर्थः।

Satishji's सूत्र-सूचिः

TBD.