Table of Contents

<<4-3-39 —- 4-3-41>>

4-3-40 उपजानूपकर्णौपनीवेष् ठक्

प्रथमावृत्तिः

TBD.

काशिका

उपजान्वादिभ्यः शब्देभ्यः सप्तमीसमर्थेभ्यः प्रायभव इत्येतस्मिन् विषये ठक् प्रत्ययो भवति। अणो ऽपवादः। औपजानुकः। औपक्र्णिकः। औपनीविकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1394 उपजानूपकर्ण। `प्रायभव' इत्यर्थे उपजानु उपकर्ण उपनीवि इत्येभ्यष्ठगित्यर्थः। उपजान्वादिषु सामीप्येऽव्ययीभावः। औपजानुक इति। जानुनः समीपमुपजानु। तत्र प्रायभव इत्यर्थः। उगन्तात्परत्वाट्ठस्य कः। औपकर्णिक इति। कर्णस्य समीपमुपकर्ण, तत्पर प्रायभव इत्यर्थः। औपनीविक इति। नीवेः समीपमुपनीवि, तत्र प्रायभव इत्यर्थः।

तत्त्वबोधिनी

1095 उपजानू।त्रयोऽप्यमी। सामीप्येऽव्ययीभावाः। तेषां समाहारद्वन्द्वे सौत्रं पुंस्त्वम्।

Satishji's सूत्र-सूचिः

TBD.