Table of Contents

<<4-3-38 —- 4-3-40>>

4-3-39 प्रायभवः

प्रथमावृत्तिः

TBD.

काशिका

तत्र इत्येव। सप्तमीसमर्थात् ङ्याप्प्रातिपदिकात् प्रायभवः इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। प्रायशब्दः साकल्यस्य किंचिन्नयूनताम् आह। स्रुघ्ने प्रायेण बहुल्येन भवति स्रौघनः। माथुरः। राष्ट्रियः। प्रायभवग्रहणम् अनर्थकं तत्र भवेन कृतत्वात्। अनित्यभवः प्रायभवः इति चेद्, मुक्तसंशयेन तुल्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1092 तत्रेत्येव. स्रुग्घ्ने प्रायेण बाहुल्येन भवति स्रौग्घ्नः..

बालमनोरमा

1393 प्रायभवः। तत्रेत्येवेति। प्रायभव इत्यर्थे सप्तम्यन्तादणादयो घादयश्च यथायथं स्युरित्यर्थः। प्रायशब्दस्य व्याख्यानम्–बाहुल्येनेति। तत्र भव इत्येव सिद्धत्वात्प्रत्याख्यातमिदं भाष्ये।

तत्त्वबोधिनी

1094 प्राय। कादाचित्कभवनाश्रयः–प्रायभवः। तेन `तत्र भवः'इत्यनेन न गतार्थतेत्याहुः। भाष्ये तु प्रत्याख्यातमेतत्, `प्रायभवग्रहणमन्र्थकं तत्र भवेन कृतत्वा'दिति।

Satishji's सूत्र-सूचिः

TBD.