Table of Contents

<<4-3-36 —- 4-3-38>>

4-3-37 नक्षत्रेभ्यो बहुलम्

प्रथमावृत्तिः

TBD.

काशिका

नक्षत्रेभ्यः उत्तरस्य जातार्थे प्रत्ययस्य बहुलं लुग् भवति। रोहिणः, रौहिणः। मृगशिराः, मार्गशीर्षः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1391 नक्षत्रेभ्यो बहुलं। रोहिण इति। रोहिण्यां जात इत्यर्थः। नक्षत्राऽणो लुकि आदिवृद्धिनिवृत्तौ `लुक्तद्धितलुकी'ति स्त्रीप्रत्ययनिवृत्तिः। नच तथा सति तकारस्य नकारोऽपि निवर्तेतेति वाच्यं, न हि रोहितशब्दोऽयं वर्णविशेषवाचको येन `वर्णादनुदात्ता'दिति ङीपो निवृत्तौ तकारोऽपि निवर्तेत। किंतु रोहिणीशब्दोऽयमब्युत्पन्नो नक्षत्रविशेषे रूढः। `रोहिणी नक्षत्रे' इति गौरादि पाठान्ङीष्। अत एव `रोहिणी नक्षत्रं प्रजापतिर्देवते'त्यादौ अन्तोदात्तत्वं श्रूयमाणं न विरुध्यते। अन्यथा `वर्णानां तणतिनितान्ताना'मित्याद्युत्तत्वं स्यादित्यलम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.