Table of Contents

<<4-3-35 —- 4-3-37>>

4-3-36 वत्सशालाऽभिजिदश्वयुक्छतभिषजो वा

प्रथमावृत्तिः

TBD.

काशिका

वत्सशालादिभ्यः परस्य जातार्थे प्रत्ययस्य लुग् वा भवति। वत्सशालायां जातः वत्सशालः, वात्सशालः। अभिजित्, आभिजितः। अश्वयुक्, आश्वयुजः। शतभिषक्, शातभिषजः। बहुलग्रहणस्य अयं प्रपञ्चः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1390 वत्सशालाभिजित्। एभ्य इति। वत्सशाला, अभिजित्, अ\उfffदायुज्, शतभिषज् इत्येभ्य इत्यर्थः। `परस्ये'ति शेषः। इत्यादीति अभिजिति जात आभिजितः, अभिजित्। अ\उfffदायुजोर्जातः-आ\उfffदायुजः, अ\उfffदायुक्। शतभिषजि जातः-शातभिषजः , शतभिषक्।

पुनरुत्थितो डिद्वा वक्तव्य इत्यर्थः। `दृष्टं सामे'ति सूत्र भाष्ये इदं वार्तिकं दृष्टम्। शातभिष इति। अणि ङित्त्वपक्षे टिलोपः।

तत्त्वबोधिनी

1092 वत्सशालाभि। वत्सशाले जात इति। वत्सशालायामित्यपि बोध्यम्। इत्यादीति। आदिशब्दादभिजित्–आभिजितः, अ\उfffदायुक्–आ\उfffदायुजः। प्रतिप्रसूत इति। कालाट्ठञा निवर्तमानो य औत्सर्गिकोऽण् `सन्धिवेलादि'सूत्रेण पुनरभ्यनुज्ञात इत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.