Table of Contents

<<4-3-35 —- 4-3-37>>

4-3-36 वत्सशालाऽभिजिदश्वयुक्छतभिषजो वा

प्रथमावृत्तिः

TBD.

काशिका

वत्सशालादिभ्यः परस्य जातार्थे प्रत्ययस्य लुग् वा भवति। वत्सशालायां जातः वत्सशालः, वात्सशालः। अभिजित्, आभिजितः। अश्वयुक्, आश्वयुजः। शतभिषक्, शातभिषजः। बहुलग्रहणस्य अयं प्रपञ्चः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1390 वत्सशालाभिजित्। एभ्य इति। वत्सशाला, अभिजित्, अ\उfffदायुज्, शतभिषज् इत्येभ्य इत्यर्थः। `परस्ये'ति शेषः। इत्यादीति अभिजिति जात आभिजितः, अभिजित्। अ\उfffदायुजोर्जातः-आ\उfffदायुजः, अ\उfffदायुक्। शतभिषजि जातः-शातभिषजः , शतभिषक्।

पुनरुत्थितो डिद्वा वक्तव्य इत्यर्थः। `दृष्टं सामे'ति सूत्र भाष्ये इदं वार्तिकं दृष्टम्। शातभिष इति। अणि ङित्त्वपक्षे टिलोपः।

तत्त्वबोधिनी

1092 वत्सशालाभि। वत्सशाले जात इति। वत्सशालायामित्यपि बोध्यम्। इत्यादीति। आदिशब्दादभिजित्–आभिजितः, अ\उfffदायुक्–आ\उfffदायुजः। प्रतिप्रसूत इति। कालाट्ठञा निवर्तमानो य औत्सर्गिकोऽण् `सन्धिवेलादि'सूत्रेण पुनरभ्यनुज्ञात इत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.