Table of Contents

<<4-3-34 —- 4-3-36>>

4-3-35 स्थानानतगोशालखरशालाच् च

प्रथमावृत्तिः

TBD.

काशिका

स्थानान्तात् प्रातिपदिकात् गोशालशब्दात् खरशालशब्दात् च जातार्थे प्रत्ययस्य लुग् भवति। गोस्थाने जातः गोस्थानः। अश्वस्थानः। गोशालः। खरशालः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1389 स्थानान्तगोशाल। एभ्य इति। स्थानान्त, गोशाल, खरशाल–एतेभ्यः इत्यर्थः। गोस्थान इति। गोस्थाने जात इत्यर्थः। गोशाल इति। गोशाले जात इत्यर्थः। एवं खरशालः। सर्वत्र अणो लुकि नादिवृद्धिः। ननु शालाशब्दस्य स्त्रीलिङ्गत्वाद्ध्रस्वनिर्देशोऽनुपपन्न इत्यत आह–विभाषा सेनेति। लिङ्गविशिष्टपरिभाषया स्त्रीलिङ्गादवपि लुक्।

तत्त्वबोधिनी

1091 स्थानान्त। गोशालेत्यत्र `विभाषा सेने'ति नपुंसकत्वे ह्यस्वत्वं, तत्साहचर्यत्खरशालेऽप्येवमेव। न चैवं स्त्रीत्वपक्षे लुङ् न स्यादिति शङ्क्यं, लिङ्गविशिष्टपरिभाषया तत्रापि लुक्सिद्धेरित्याहुः। यद्यपि टाबन्तयोः पाठेऽप्येकदेशविकृतन्यायेन क्लीबेऽपीष्टं सिध्यति, तथापि लाघवार्थं ह्यस्वपाठः। नपुंसकत्वे ह्यस्वत्वमिति। `सूत्रे 'इति शेषः।

Satishji's सूत्र-सूचिः

TBD.