Table of Contents

<<4-3-33 —- 4-3-35>>

4-3-34 श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाऽषाढाबहुलाल् लुक्

प्रथमावृत्तिः

TBD.

काशिका

श्रविष्ठाऽअदिभ्यः शब्देभ्यः नक्षत्रेभ्यः आगतस्य जातार्थे लुग् भवति। तस्मिन् स्त्रीप्रत्ययस्य अपि लुक् तद्धितलुकि 1-2-49 इति भवति। श्रविष्ठासु जातः श्रविष्ठः। फल्गुनः। अनुराधः। स्वातिः। तिष्यः। पुनर्वसुः। हस्तः। विशाखः। अषाढः। बहुलः। लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियाम् उपसङ्ख्यानम्। चित्रायां जाता चित्रा। रेवती। रोहिणी। स्त्रीपर्त्ययस्य लुकि कृते गौरादित्वात् ङीष्। फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ। फल्गुनी। अषाढा। श्रविष्ठाषाढाभ्यां छणपि वक्तव्यः। श्राविष्ठीयः। आषाढीयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1386 श्रविष्ठा। एभ्य इति। श्रविष्ठा, फल्गुनी, अनुराधा, स्वाति, तिष्ट, पुर्नर्वसु, हस्त विशाखा, अषाढा, बहुला–एतेभ्यः इत्यर्थः। जातार्थेति। प्रकरणलभ्यमिदम्। स्वातिशब्दो ह्यस्वान्त इति कैयटहरदत्तौ। दीर्घान्त इति `अत सातत्यगमने' इति धातौ माधवः। कृत्तिकावाचिबहुलाशब्दष्टाबन्तः। समाहारद्वन्द्वे ह्यस्वनिर्देशः।

तत्त्वबोधिनी

1089 श्रविष्ठ। इह सूत्रे स्वातिशब्दो ह्यस्वान्त इति कैयटहरदत्तादयः। माधवस्तु `दीर्घन्तः'इति `अत सातत्यगमने'इति धातावाह। एवं चात्र स्वाती तिष्येति ङीषन्तग्रहणादङीषन्तस्य सौवात इति रूपं भवार्थं इव जातार्थेऽपि माधवमते सिध्यत्वेव। कैयटादिमते तु जातार्थे न सुध्यति। लुग्विधायकेऽस्मिन्ङीषन्तग्रहणेऽपि लिङ्गविशिष्टपरिभाषया ङीषन्तादपि अणो लुकःप्रवृत्तेः।

Satishji's सूत्र-सूचिः

TBD.