TBD.
वर्षशब्दाट् ठक् प्रत्ययो भवति शैषिकः ऋत्वणो ऽपवादः। वार्षिकं वासः। वार्षिकमनुलेपनम्।
TBD.
–
1369 वर्षाभ्यष्ठक्। तृतीयर्तौवर्षाशब्दौ नित्यं बहुवचनान्तः, `अप्सुमनःसमासिकतावर्षाणां बहुत्व'मिति लिङ्गानुशासनसूत्रात्। `स्त्रिया प्रावृट् स्त्रियां भूम्नि वर्षाः' इत्यमरः। वर्षाशब्दाजाताद्यर्थे ठगित्यर्थः। वर्षाषु साध्विति हितकारीत्यर्थः। ननु `तत्र साधु'रिति साध्वधिकारस्य शेषाधिकारबहुर्भूतत्वात्कथं साध्वर्थेऽयं प्रत्यय इत्यत आह–कालादिति। साध्वर्थे इति। साध्वर्थेऽपि ठगित्यर्थः। अस्य जाताद्यर्थेषु शैषिकेष्वन्तर्भावादिति भावः।
–
TBD.