TBD.
हरीतकी इत्येवम् आदिभ्यः शब्देभ्यः फले प्रत्ययस्य लुब् भवति। लुकि प्राप्ते लुपो विधाने युक्तवद्भावे स्त्रीप्रत्ययश्रवणे च विशेषः। हरीतक्याः फलं हरीतकी। कोशातकी। नखरजनी। अत्र च व्यक्तिर् युक्तवद्भावेन इष्यते, वचनं त्वभिधेयवदेव भवति। हरीतक्याः फलानि हरीतक्यः। हरीतकी। कोशातकी। नखरजनी। शष्कण्डी। दाडी। दोडी। दीडी। श्वेतपाकी। अर्जुनपाकी। काला। द्राक्षा। ध्वङ्क्षा। गर्गरिका। कण्टकारिका। शेफालिका। येषां च फलपाकनिमित्तः शोषः। पुष्पमुलेषु बहुलम्। हरीतक्यादिः।
TBD.
–
1525 हरीतक्यादिभ्यश्च। हरीतक्यादीनामिति। वार्तिकमिदम्। एषां प्रकृतिलिङ्गमेव लुप्तप्रत्ययार्थे अतिदिश्यते, नतु प्रकृतिवचनमपीत्यर्थः। हरीतक्य इति। जातिङीषन्तः प्रत्ययस्वरेणान्तोदात्तो हरीतकीशब्दः। ततोऽनुदात्तादित्वादञि तस्य `फले लु'गिति लुकि प्राप्ते लुपि युक्तवत्त्वात्स्त्रीत्वे विशेष्यानुरोधाद्बहुवचनम्।
1187 हरीतक्यादिभ्यश्च। इह द्राक्षाप्रभृतिभ्यो `नित्यं वृद्धे'ति प्राप्तस्य मयटो लुप्, अनुदात्तादिभ्योऽञः, इतरेभ्यस्त्वणः। लिङ्गमेवेति। वचनं तु विशेष्यवदेव, `हरीतक्यादिषुव्यक्ति'रित्युक्तत्वादिति भावः।
TBD.