Table of Contents

<<4-3-165 —- 4-3-167>>

4-3-166 लुप् च

प्रथमावृत्तिः

TBD.

काशिका

वा इत्येव। जम्ब्वाः फले ऽभिधेये प्रत्ययस्य वा लुप् भवति। युक्तवद्भावे विशेषः। जम्ब्वाः फलम् जम्बूः फलम्, जम्बु फलम्, जाम्बवम् इति वा। लुप्प्रकरणे पह्लपाकशुषाम् उपसङ्ख्यानम्। व्रीहयः। यवाः। माषाः। मुद्गाः। तिलाः। पुष्पमूलेसु बहुलम्। मल्लिकायाः पुष्पम् मल्लिका। नवमल्लिका जातिः। बिदार्याः मूलं बिदारी। अंशुमती। बृहती। न च भवति। पाटलानि पुष्पाणि। शाल्वानि मूलनि। बहुलवचनात् क्वचिदन्यदपि भवति, कदम्बं पुष्पम्, अशोकम्, करवीरम्, बैल्वानि फलानि इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1524 लुप् च। लुकैव सिद्धे सुब्विधेः फलमाह–लुपि युक्तवदिति जम्बूरिति। जम्ब्वाः फलमित्यर्थः। फलप्रत्ययस्य लुपि युक्तवत्त्वेन विशेष्यलिङ्गवचने बाधित्वा स्त्रीत्वमेकवचनं चेत्यर्थः। तथाच जम्ब्वाः फलान्यपि जम्बूरेव। फलपाकेन शुष्यन्तीति फलपाकशुष–ओषधयः, तद्वाचिभ्यः परस्य फलप्रत्ययस्य लुप उपसङ्ख्यानमित्यर्थः। `फले लुगि'त्यस्यापवादः। व्रीहय इति। व्रीह्राख्यानामोषधीनां फलानीत्यर्थः। एवं मुद्गाः। बिल्वाद्यणो लुप्। युक्तवद्भावात्पुंस्त्वं, नतु विशेष्यनिघ्नत्वम्। लुप् स्या'दिति शेषः। पुष्पं मल्लिकेति। `अथ द्वितीयं प्रागीषा'दित्यनुवृत्तौ `मादीनां चे'ति फिट्सूत्रेण मध्योदात्तो मल्लिकाशब्दः। ततः `अनुदात्तादेश्चे'त्यञो लुप्। युक्तवत्त्वात्स्त्रीत्वम्। जातीति। `लघावन्ते' इत्यन्तोदात्तो जातिशब्दः। ततः `अनुदात्तादेश्चे'त्यञोऽनेन लुप्। युक्तवत्त्वात्स्त्रीत्वम्। जातीति। `लघावन्ते' इत्यन्तोदात्तो जातिशब्दः। ततः `अनुदात्तादेश्चे'त्यञोऽनेन लुप्। युक्तवत्त्वात्स्त्रीत्वम्।विदारीति। जातिङीषन्तमिदं प्रत्ययस्वरेणान्तोदात्तम्। अनुदात्ता दित्वादञि तस्य लुप्, युक्तवत्त्वात्स्त्रीत्वम्। पाटलानीति। बिल्वादित्वादण्। एवं साल्वानि। नन्वशोकस्य पुष्पम् अशोकं, करवीरस्य पुष्पं- करवीरमित्यत्रापि `पुष्पमूलेषु बहुल'मिति लुपि युक्तवत्त्वात्पुंस्त्वे अशोकः पुष्पं, करवीरः पुष्पमिति स्यादित्यत आह–बहुलग्रहणादिति। तथाच युक्तवत्त्वस्याऽप्रवृत्तेः विशेष्यनिघ्नत्वमेवेति। भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.