Table of Contents

<<4-3-163 —- 4-3-165>>

4-3-164 प्लक्षाऽदिभ्यो ऽण्

प्रथमावृत्तिः

TBD.

काशिका

फले इत्येव। प्लक्षाऽदिभ्यः प्रातिपदिकेभ्यः फले विकारावयवत्वेन विवक्षिते अण् प्रत्ययो भवति। अञो ऽपवादः। विधानसामर्थ्यात् तस्य न लुग् भवति। प्लाक्षम्। नैयग्रोधम्। प्लक्ष। न्यग्रोध। अश्वत्थ। इङ्गुदी। शिग्रु। ककर्न्धु। वुहती। प्लक्षाऽदिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1521 प्लक्षादिभ्योऽण्। विकारे अवयवे चे'ति शेषः। तत्र शिग्रुकर्कन्धूशब्दयोरुवर्णान्तत्वादञि प्राप्ते, प्लक्षन्यग्रोधादीनामनुदात्तादित्वादञि प्राप्तेऽण्विधिः। नन्वस्य फले अणो लुक्कुतो नेत्यत आह–विधानेति।

तत्त्वबोधिनी

1184 प्लक्षादिभ्योऽण्। अञोऽपवादः। शिग्रुकर्कन्धूशब्दाभ्याम् `ओर'ञिति, अन्येभ्यस्त्वनुदात्तादित्वादञः प्राप्तिः। प्लक्ष न्याग्रोध अ\उfffदात्थ इङ्गुदी शिग्रु कर्कन्धू बृहती। तत्र प्लक्षशब्दः `फिषः'इत्यन्तोदात्तः। न्ग्रोधशब्दो `लघावन्ते' इति मध्योदात्तः। अ\उfffदात्थशब्दस्तु घृतादित्वादन्तोदात्तः। इङ्गुदीबृहतीशब्दौ गौरादिङीषन्तौ। `आ\उfffदात्थवैणवप्लाक्षनैयग्रोधैङ्गुदं फले'इत्यमरः।

Satishji's सूत्र-सूचिः

TBD.