Table of Contents

<<4-3-162 —- 4-3-164>>

4-3-163 फले लुक्

प्रथमावृत्तिः

TBD.

काशिका

विकारावयवयोरुत्पन्नस्य फले तद्विषये विवक्षिते लुग् भवति। आमलक्याः फलम् आमलकम्। कुवलम्। वदरम्। फलितस्य वृक्षास्य फलम् अवयवो भवति विकारश्च, पल्लवितस्य इव पल्लवः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1520 फले लुक्। आमलकमिति। फलितस्य वृक्षस्य फलमवयवो विकारश्च। तस्मिन्मयटो लुकि `लुक्ताद्धितलुकी'ति ङीषो लुक्।

तत्त्वबोधिनी

1183 फले लुक्। विकारावयवेति। फलितस्य वृक्षस्य फलमवयवो, विकारश्च। तेनान्यतरस्मिन्प्रत्ययः। आमलकमिति। मयटो लुक्। `लुक्तद्धितलुकि'ति ङीषो लुक्। न चात्र स्थानिवद्भावने `यस्येति च'इति लोपः शङ्ख्यः, `लुका लुप्तं न स्थानिव'दित्यभ्युपदमात्। अत एव पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुरित्यत्र `अध्यर्धपूर्वे'ति ठञो लुकि कृते `लुक्तद्धिते'तिङीषो लुका लुप्तत्वेन स्थानिवत्त्वाऽभावादुकारस्य यणादेशो न भवति।

Satishji's सूत्र-सूचिः

TBD.