Table of Contents

<<4-3-160 —- 4-3-162>>

4-3-161 द्रोश् च

प्रथमावृत्तिः

TBD.

काशिका

द्रुशब्दाद् यत् प्रत्ययो भवति विकारावयवयोरर्थयोः। ओरञो ऽपवादः। द्रव्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1518 द्रोश्च। `य'दिति शेषः। `एकाचो नित्य'मिति मयटः `ओरञि'त्यस्य चापवादः।

तत्त्वबोधिनी

1181 द्रोश्च। `ओरञः', `एकाचो नित्य'मिति मयटश्चापवादोऽयम्। द्रव्यमिति। `ओर्गुणः', `वान्तो यि प्रत्यये'। `द्रव्यगुणकर्मे'त्यादिषु प्रयुज्यमानद्रव्यशब्दस्तु गुणैर्द्रूयते आश्रीयते इति द्रुधातोः `अचो य'दिति यत्प्रत्ययान्तः।

Satishji's सूत्र-सूचिः

TBD.