TBD.
गोपयस्शब्दाभ्यां यत् प्रत्ययो भवति विकारावयवयोरर्थयोः। गव्यम्। पयस्यम्। सर्वत्र गोरजादिप्रसङ्गे यदस्त्येव, मय्ड्विषये तु विधीयते।
TBD.
1118
1517 गोपयसोर्यत्। गव्यमिति। गोर्विकारोऽवयवो वेत्यर्थः। `वान्तो यी'त्यवादेशः। पयस्यमिति। पयसो विकार इत्यर्थः। `सर्वत्र गोरजादिप्रसङ्गे य'दित्येव सिद्धे यद्विधानं `मयड्वैतयो'रिति पाक्षिकमयटो बाधनार्थम्।
1180 गोपयसोः। यद्यपि सर्वत्र गोरजादिप्रसङ्गे यदुक्तस्तथापि `मयड्वैतयो'रिति पक्षे प्राप्तं मयटं बाधितुं पुनरयं यद्विधिः।
TBD.