Table of Contents

<<4-3-158 —- 4-3-160>>

4-3-159 एण्या ढञ्

प्रथमावृत्तिः

TBD.

काशिका

एणीशब्दाद् ढञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। प्राण्यञो ऽपवादः। ऐणेयम् मांसम्। पुंसस्तु अञेव भवति। एणस्य मांसम् ऐणम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1516 एण्या ढञ्। एण्या अवयवो विकारो वा ऐणेयम्। ढस्य एयादेशः। `यस्येति चे'ति ईकारलोपः। स्त्रीलिङ्गनिर्देशस्य प्रयोजनमाह–एणस्य त्विति।

तत्त्वबोधिनी

1179 एण्या ढञ्। प्राण्यञोऽपवादः। स्त्रीलिङ्गनिर्देशादाह—एणस्यत्विति।

Satishji's सूत्र-सूचिः

TBD.