Table of Contents

<<4-3-158 —- 4-3-160>>

4-3-159 एण्या ढञ्

प्रथमावृत्तिः

TBD.

काशिका

एणीशब्दाद् ढञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। प्राण्यञो ऽपवादः। ऐणेयम् मांसम्। पुंसस्तु अञेव भवति। एणस्य मांसम् ऐणम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1516 एण्या ढञ्। एण्या अवयवो विकारो वा ऐणेयम्। ढस्य एयादेशः। `यस्येति चे'ति ईकारलोपः। स्त्रीलिङ्गनिर्देशस्य प्रयोजनमाह–एणस्य त्विति।

तत्त्वबोधिनी

1179 एण्या ढञ्। प्राण्यञोऽपवादः। स्त्रीलिङ्गनिर्देशादाह—एणस्यत्विति।

Satishji's सूत्र-सूचिः

TBD.