Table of Contents

<<4-3-157 —- 4-3-159>>

4-3-158 उमाऊर्णयोर् वा

प्रथमावृत्तिः

TBD.

काशिका

उमाशब्दादूर्णाशदच् च वा वुञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। औमकम्, औमम्। और्णकम् और्णम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1515 उमोर्णयोर्वा। `नु'ञिति शेषः। औमकमिति। उमा–सस्यविशेषः। `उमा स्यादतसी क्षुमा' इत्यमरः। उमाया विकारोऽवयवो वेत्यर्थः। औममिति। `तृणधान्यानां चे'त्युमाशब्द आद्युदात्तः। ततो वुञभावे `अनुदात्तादेश्चे'त्यञभावादौत्सर्गिकोऽण्। ऊर्णाशब्दस्तु फिट्स्वरेणान्तोदात्तः। ततो वुञभावे अनुदात्तादित्वादञित्यर्थः। `ऊर्णा मेषादिलोम्नि स्यादि'त्यमरः। `स्थूणोर्णे नपुंसके चे'ति लिङ्गानुशासनसूत्रम्।

तत्त्वबोधिनी

1178 अणञाविति। उमाशब्दः `तृणधान्यानां च' इत्याद्युदात्तः। ऊर्णाशब्दस्तु प्रातिपदिकस्वरेणान्तोदात्त इति भावः।

Satishji's सूत्र-सूचिः

TBD.