Table of Contents

<<4-3-152 —- 4-3-154>>

4-3-153 जातरूपेभ्यः परिमाणे

प्रथमावृत्तिः

TBD.

काशिका

जातरूपं सुवर्णम्। बहुवचननिर्देशात् तद्वाचिनः सर्वे गृह्यन्ते। जातरूपवाचिभ्यः प्रातिपदिकेभ्यः अण् प्रत्ययो भवति परिमाणे विकारे। मयडादीनम् अपवादः। हाटको निष्कः। हाटकं कार्षापणम्। जातरूपम्। तापनीयम्। परिमाणे इति किम्? यष्टिरियं हाटकमयी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1510 जातरूपेभ्यः। अणिति। शेषपूरणम्। जातरूपं-सुवर्णं, तद्वाचिभ्योऽण् स्यात्परिमाणे विकारे गम्ये इत्यर्थः। ननु जातरूपशब्दस्यैव कुतो न ग्रहणमित्यत आह- -बहुवचनादिति। हाटक इत्यादि। हाटकस्य तपनीयस्य सुवर्णस्य वा निष्कपरिमाणको विकार इत्यर्थः। तापनीय इति। `नित्यं वृद्धशरादिभ्यः' इति मयटोऽपवादः। इतरत्र तु `अनुदात्तादेश्चे'त्यञोऽपवादः। `गुञ्जाः पञ्चाद्यमाषकः। ते षोडशाऽक्षः' इत्यमरः। सुवर्णविस्तौ हेम्नोऽक्षे' इति च।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.