Table of Contents

<<4-3-151 —- 4-3-153>>

4-3-152 तालाऽदिभ्यो ऽण्

प्रथमावृत्तिः

TBD.

काशिका

तालाऽदिभ्यः प्रातिपदिकेभ्यः अण् प्रत्ययो भवति विकारावयवयोरर्थयोः। मयडादीनाम् अपवादः। तालं धनुः। बार्हिणम्। ऐन्द्रालिशम्। तालाद्धनुषि। बार्हिण। इन्द्रालिश। इन्द्रादृश। इन्द्रायुध। चाप। श्यामाक। पीयुक्षा। तालादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1509 तालादिभ्योऽण्। तालाद्धनुषीति। गणसूत्रमिदम्। तालं धनुरिति। `नित्यं वृद्धे'ति मयटोऽपवादः। ऐन्द्रायुधमिति। `अनुदात्तादेश्चेत्यञोऽपवादः, समासस्वरेणान्तोदात्तत्वात्।

तत्त्वबोधिनी

1174 तालादिभ्योऽण्। अञ्मयटोरिति। तालशब्दश्यामाकशब्दाभ्यां वृद्धत्वान्मयट् प्राप्तः। बर्हिणां विकारो बार्हिणम्। `प्राणिरजतादिभ्योऽञ्'। ततो `ञितश्च तत्प्रत्यया'दित्यञ्प्राप्तः, शेषेभ्यस्त्वनुदात्तादित्वादञ्प्राप्तः। तथाहि विशिदृशिभ्यामिन्द्रशब्द उपपदे मूलविभुजादित्वात्कः। `अन्येषामपी'ति दीर्घः। इन्द्राविशः। इन्द्रादृशः। `चप सान्त्वने'पचाद्यच्। `चापपीयूक्षा'शब्दो `लघावन्ते- -इति मध्योदात्तः `फिषः'इत्यदिकाराट्टापः प्रागेव स्वरप्रवृत्तेः। इन्द्रायुधशब्दः समासस्वरेणान्तोदात्तः। अण्ग्रहणं बाधकबाधानार्थम्। यथाविहितप्रत्ययविधौ बार्हिशब्दाद्वृद्धलक्षणो मयट् स्यात्, `ञितश्च तत्प्रत्यया'दित्यञो बाधनेन वचनस्य चरितार्थत्वादित्याहुः। तालाद्धनुषीति। गणसूत्रमिदम्। हाटक इति। इह वृद्धलक्षणो मयट् प्राप्तः। तपनीयदेः–`अनुदात्तादेश्चे'त्यञ्प्राप्तः।

Satishji's सूत्र-सूचिः

TBD.