Table of Contents

<<4-3-139 —- 4-3-141>>

4-3-140 अनुदात्ताऽदेश् च

प्रथमावृत्तिः

TBD.

काशिका

अनुदात्तादेः प्रातिपदिकातञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। अणो ऽपवादः। दाधित्थम्। कापित्थम्। माहित्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1499 अनुदात्तादेश्च। `विकारे अ'ञिति शेषः। `अवयवे चे'ति सूत्रमप्यत्र सम्बध्यते। दाधित्थमिति। दधित्थस्यावयवो विकारो वेत्यर्थः। एवं कापित्थम्। `कपित्थे तु दधित्थग्राहिमन्मथाः' इत्यमरः। अव्युत्पन्नप्रातिपदिकत्वात्-फिट्- स्वरेणान्तोदात्तावेतौ।

तत्त्वबोधिनी

1167 दाधित्थमिति। दधनि तिष्ठतीति `सुपि स्थः'इति कः। उपपदसमासः। पृषोदरादित्वात्सकारस्य तकारः। कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तत्वम्। एवं कपित्थेऽपि बोध्यम्।

Satishji's सूत्र-सूचिः

TBD.