Table of Contents

<<4-3-140 —- 4-3-142>>

4-3-141 पलाशाऽदिभ्यो वा

प्रथमावृत्तिः

TBD.

काशिका

पलाशाऽदिभ्यः प्रातिपदिकेभ्यः वा अञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। पालाशम्। खादिरम्। यवासम्। उभयत्र विभाषेयम्। पलाशखदिरशिंशिपास्पन्दनानाम् अनुदत्तादित्वात् प्राप्ते अन्येषाम् अप्राप्ते। पलाश। खदिर। शिंशिपा। स्पन्दन। करीर। शिरीष। यवास। विकङ्कत। पलाशादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1500 पलाशादिभ्यो वा। `अ' ञिति शेषः। अवयवे चेत्येव पलाशखदिररशिंशपास्यन्दनानामनुदात्तादित्वान्नित्यं प्राप्ते, इतरेषामप्राप्ते विकल्पोऽयम्।

तत्त्वबोधिनी

1168 पलाशादिभ्यो वा। उभयत्रविभाषेयम्। पलाशखदिरशिंशपास्यन्दनानामनुदात्तादित्वान्नित्यं प्राप्ते, करीरशिरीषविकङ्कतपूलासयवासशब्दानामप्राप्तेविधानात्। पालाशमिति। पलाशब्दो घृतादित्वादन्तोदात्तः। खदिरशब्दः`अजिरशिशिरे'त्यादौ किरच्प्रत्ययान्तो निपातितः। शिंशपाशब्दः `अथ द्वितीयं प्रागीषा'दिति वर्तमाने `पान्तानां गुर्वादीना'मिति मध्योदात्तः। `स्पदि किंचिच्चलने'`अनुदात्तेतश्च हलादे'रिति युच्। कारीरमिति। `किरतेरीरन्'। नित्रुओण करीरशब्दोऽयमाद्युदात्तः। `कृ?तृ?भ्यामीषन्' `शृ?पृभ्यां किच्च'। पूर्ववच्छिरीषशब्दोऽप्याद्युदात्तः। विकङ्कतपूलासयवासशब्दाः `ग्रामादीनां चे'त्याद्युदात्ताः।

Satishji's सूत्र-सूचिः

TBD.