Table of Contents

<<4-3-138 —- 4-3-140>>

4-3-139 ओरञ्

प्रथमावृत्तिः

TBD.

काशिका

उवर्णान्तात् प्रातिपदिकातञ् प्रतयो भवति विकारावयवयोरर्थयोः। अणो ऽपवादः। अनुदात्तादेरन्यदिहोदाहरणम्। दैवदारम्। भाद्रदारवम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1498 ओरञ्। उवर्णादढ् स्यादित्यर्थः। प्राण्योषधिवृक्षेभ्योऽवये विकारे च, इतरेभ्यस्तु विकारे। दैवदारवं भाद्रदारवमिति। देवदारोर्भद्रदारोश्चावयवो विकारो वेत्यर्थः। `पीतद्वर्थाना'मित्याद्युदात्तावेतौ। ततश्च `अनुदात्तादेश्चे'त्यनेन गतार्थता न।

तत्त्वबोधिनी

1166 ओरञ्। अनुदात्तादेरन्यदिहोदाहरणम्। दैवदारवमिति। देवदारु–भद्रदारुशब्दौ `मितद्र्वर्थानामि'त्याद्युदात्तौ।

Satishji's सूत्र-सूचिः

TBD.