Table of Contents

<<4-3-137 —- 4-3-139>>

4-3-138 त्रपुजतुनोः षुक्

प्रथमावृत्तिः

TBD.

काशिका

त्रपुजतुशब्दाभ्याम् अण् प्रत्ययो भवति विकरे, तत्सन्नियोगेन तयोः षुगागमो भवति। ओरञो ऽपवादः। त्रपुणो विकारः त्रापुषम्। जातुषम्। अप्राण्यादित्वान् न अवयवे।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1497 त्रपुजतुनो षक्। त्रापुषं जातुषमिति। त्रपुणो जतुनश्च विकार इत्यर्थः।

तत्त्वबोधिनी

1165 त्रपुजतुनोः। `बिल्वादिभ्योऽणि'त्यतोऽनुवर्तनादाह–अण्स्यादिति। `ओरञि'त्यस्यायमपवादः। अप्राण्यादित्वादवयवे न भवतीत्याशयेनाह—विकारे इति। त्रापुषमिति। त्रपुणो विकारः। एवं जुतनो विकारो जातुषम्।

Satishji's सूत्र-सूचिः

TBD.