Table of Contents

<<4-3-135 —- 4-3-137>>

4-3-136 बिल्वाऽदिभ्यो ऽण्

प्रथमावृत्तिः

TBD.

काशिका

बिल्व इत्येवम् आदिभ्यो ऽण् प्रत्ययो भवति विकारावयवयोरर्थयोः। यथायोगम् अञ्मयटोरपवादः। बिल्वस्य विकारो ऽवयवो वा बैल्वः। गवेधुकाशब्दो ऽत्र पठ्यते, ततः कोपधातेव सिद्धे मयड्बाधनार्थं ग्रहणम्। विल्व। व्रीहि। काण्ड। मुदग्। मसूर। गोधूम। इक्षु। वेणु। गवेधुका। कर्पासी। पाटली। कर्कन्धू। कुटीर। बिल्वादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1495 विल्वादिभ्योऽण्। एषु प्राण्योषधिवृक्षेभ्यः अवयवे विकारे च, इतरेभ्यस्तु विकारे अण् स्यादित्यर्थः। बैल्वमिति। बिल्वस्यावयवो विकारो वेत्यर्थः। बिल्व, व्रीहि काण्ड, मुद्ग, मसूर, गोधूम, इक्षु, वेणु, गवेधुक, कार्पासी, पाटली, कर्कन्धू, कटी'ति बिल्वादयः। तत्र गवेदुकस्य `कोपधाच्चे'त्यणि सिद्धे मयड्बाधनार्थमिह पाठः। इतरेषां तु `अनुदात्तादेश्चे'त्यञो बाधनार्थमिति कौस्तुभे विस्तरः।

तत्त्वबोधिनी

1164 बिल्वादिभ्योऽण्। अञ्मयटोरपवादः. बिल्व व्राहि काण्ड मुद्ग मसूर गोधून इक्षु कर्पासी वेण्वादयो–बिल्वादयः।

Satishji's सूत्र-सूचिः

TBD.