TBD.
प्राण्योषधिवृक्षवाचिभ्यः शब्देभ्यः षष्ठीसमर्थेभ्यः अवयवे यथाविहितं प्रत्ययो भवति, चकाराद् विकारे च। तत्र प्राणिभ्यः अञं वक्ष्यति। कपोतस्य विकारो अवयवो वा कापोतः। मायूरः। तैत्तिरः। ओषधिभ्यः मौर्वं काण्डम्। मौर्वं भस्म। वृक्षेभ्यः कारीरं काण्डम्। कारीरं भस्म। इत उत्तरे प्रत्ययाः प्राण्योषधिवृक्षेभ्यः विकारावयवयोः भवन्ति। अन्येभ्यस् तु विकारमात्रे। कथं द्वयम् अप्यधिक्रियते तस्य विकारः, अवयवे च प्राण्योषधिवृक्षेभ्यः इति? विकारावयवयोर् युगपदधिकारो ऽपवाद। विधानार्थः। कृतनिर्देशौ हि तौ।
TBD.
1114 चाद्विकारे. मयूरस्यावयवो विकारो वा मायूरः. मौर्वं काण्डं भस्म वा. पैप्पलम्..
1494 अवयवे च प्रा।प्राणिवाचिन ओषधिवाचिनो वृक्षवाचिनश्च षष्ठ\उfffद्न्तेभ्योऽवयवे विकारे च अणादयः उक्ता वक्ष्यमाणाश्च प्रत्यया यथाविहितं स्युः, अन्येभ्यस्तु विकारमात्र इत्यर्थः। प्राणिन उदारहरति–मायूर इति। `लघावन्ते' इति मयूरशब्दो भध्योदात्तः। ततः `प्राणिरजतादिभ्यः' इत्यञ्। ओषधेरुदाहरति–मौर्वमिति। मूर्वा ओषधिविशेषः। तस्या अवयवो विकारो वेत्यर्थः। औत्सर्गिकोऽण्। `अनुदात्तादेश्चे'त्यञ् तु वक्ष्यमाणो न भवति, `तृणधान्यानां च द्व्यषा'मित्याद्युदात्तत्वात्। वृक्षस्योदाहरति–पैप्पलमिति। पिप्पलः-अ\उfffदात्थः, तस्यावयवो विकारो वेत्यर्थः। `लघावन्ते' इति मध्योदात्तः पिप्पलशब्दः। `अनुदात्तादेश्चे'ति वक्ष्यमा'णाऽञोभावे औत्सर्गिकोऽण्।
1163 चाद्विकार इति। तेन वक्ष्यमाणप्रत्ययाः प्राण्यदिभ्यस्त्रिभ्योऽर्थद्वये भवन्त्यन्येभ्यस्तु विकार एवेति फलितम्। मायूर इति। `प्राणिरजतादिभ्यः' इत्यञ्। अनुदात्तादेरञः सिद्धत्वादुदात्ताद्यर्थं, वृद्धेषुमयड्बाधनार्थ चावश्यकमिदं परत्वादनुदात्तादिष्वपि प्रवर्तते। ओषधिभ्य उदाहरति—मौर्वमिति। मूर्वाशब्दः `तृणधान्यानां च द्व्यषा'मित्याद्युदात्तः। पिप्पलशब्दस्तु `लघावन्ते'इत्यनेनाद्युदात्तः।
TBD.