Table of Contents

<<4-3-133 —- 4-3-135>>

4-3-134 तस्य विकारः

प्रथमावृत्तिः

TBD.

काशिका

तस्य इति षष्ठीसमर्थाद् विकारः इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति। प्रकृतेरवस्थान्तरं विकारः। किम् इह उदाहरणम्? अप्राण्याद्युदात्तम् अवृद्धं, यस्य च न अन्यत् प्रतिपदं विधानम्। अश्मनो विकारः आश्मनः, आश्मः। अश्मनो विकारे। इति टिलोपः पाक्षिकः। भास्मनः। मार्त्तिकः। नित्स्वरेणाद्युदात्ता एते। तस्य प्रकरणे तस्य इति पुनर् वचनं शैषिकनिवृत्त्यर्थम्। विकारावयवयोर्धादयो न भवन्ति। हालः। सैरः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1113 (अश्मनो विकारे टिलोपो वक्तव्यः). अश्मनो विकारः आश्मः. भास्मनः. मार्त्तिकः..

बालमनोरमा

1493 अथ विकारार्थप्रत्यया निरूप्यते। तस्य विकारः। विक्रियते इति विकारः। कर्मणि घञ्। प्रकृतेकवस्थान्तरात्मिका विक्रियां प्राप्त इत्यर्थः। विकार इत्यर्थे षषथ्ठ\उfffद्न्तादणादयः साधारणा, वक्ष्यमाणाश्च वैशेषिका यथाविहितं स्युरित्यर्थः। \र्\नश्मनो विकार इति। विकारार्थकप्रत्यये परे अश्मन्शब्दस्य टिलोपो वक्तव्य इत्यर्थः। `अ'निति प्रकृतिभावापवादः। आश्म इति। अणि टिलोपे रूपम्। एवं चर्मणो विकारः चार्मः कोशः। `चर्मणः कोशे' इत्युपसह्ख्यानाट्टिलोपः। भास्मन इति। भस्मनो विकार इत्यर्थः। अणि `अ'निति प्रकृतिभावान्न टिलोपः। मार्त्तिक इति। मृत्तिकाया विकार इत्यर्थः। अत्र `प्राणिरजतादिभ्योऽञ्' `ओरञ्' `अनुदात्तादेश्चे'त्यादिवक्ष्यमाणपवादविषयभिन्नमुदाहरणम्। तत्र अश्मन्, भस्मन्, चर्मन् इतित्रयं मनिन्प्रत्ययान्तं नित्स्वरेणाद्युदात्तम्। मृत्तिकाशब्दोऽपि `मृदस्तिक'न्निति तिकन्नन्तो नित्स्वरेणाद्युदात्तः।

तत्त्वबोधिनी

1162 तस्य विकारः। षष्ठ\उfffद्न्ताद्विकारे अणादयः स्युः। घादिसंबद्धस्य `तस्य' [इति]ग्रहणस्य निवृत्ये पुनस्तस्येत्युक्तम्। अणादयस्तु न निवर्तन्ते, `प्राग्दीव्यतः' `प्राग्भवना'दिति विशिष्टावधिरिच्चेदनाधिकृतत्वात्। इह `प्राणिरजतादिभ्योञ्', `ओरञ्', `अनुदात्तादेश्च' मयड्वेतयोः', `नित्यं वृद्धशरादिभ्यः', `पिष्टाच्चे'त्यादिभिरपवादानां वक्ष्यमाणत्वादप्राणि, आद्युदात्तम्, अवृद्धं , प्रतिपदमवक्ष्यमाणप्रत्ययं चोदाहरणमिति पर्यालोच्य ततैवोदाहरति—आश्मैत्यादि। अश्मन्?भस्मन्?शब्दौ मनिन्प्रत्ययान्तौ। `मृदस्तिकन्'। निस्त्वरेण त्रयोऽप्याद्युदात्ताः। प्राचीनस्य तस्येत्यस्य निवृत्तत्वादधिकारोक्तप्रत्यया न प्रवर्तन्त इति नेह ठक्। हालः, सैरः।

Satishji's सूत्र-सूचिः

TBD.