Table of Contents

<<4-3-132 —- 4-3-134>>

4-3-133 आथर्वणिकस्य इकलोपश् च

प्रथमावृत्तिः

TBD.

काशिका

अणित्येव। आथर्वणिकशब्दादण् प्रत्ययो भवति, तत्संनिहोगेन च इकलोपः, तस्य इदम् इत्येतस्मिन् विषये। चरनवुञो ऽपवादः। आथर्वणिकस्यायं आथर्वणो धर्मः आम्नायो वा। चरणाद् धर्माम्नाययोः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

446 आथर्वणिकस्येति। अथर्वणा प्रोक्तो वेदोऽथर्वेत्युपचर्यते, तमधीते आथर्वणिकः। वसन्तादित्याट्ठक्। आथर्वणिकस्यायमित्यर्थे अनेन अणि, इको लोपे `दाण्डिनायने'ति टिलोपाऽभावे `आथर्वण' इति रूपमित्यर्थः। धर्म आम्नायो वेति। `चरणाद्धर्माम्नाययो'रित्युक्तेरिति भावः। ननु तस्येदमित्येव सिद्धेऽण्विधिव्र्यर्थ इत्यत आह–चरणाद्वुञोऽपवाद इति। आथर्वणिकशब्दस्य अथर्वणवेदाध्येतृवाचित्वादिति भावः। शैषिकाः।*

तत्त्वबोधिनी

802 आथर्वणिकस्य। अथर्वणा प्रोक्तो वेदोऽथर्वा, अबेदोपचारात्। तमधीते। वसन्तादित्वाट्ठक्। दाण्डिनायनादिसूत्रे निपातनाट्टिलोपाऽभावः। अन्ये त्वाहुः—- अथर्वणा प्रोक्तामधीते आथर्वणिकः। इह प्रोक्तेऽण्। ततः `छन्दोब्राआहृणानी'ति तद्विषयतायामाथर्वणशब्दस्यापि वसन्तादिषु पाठादध्येतरि ठक्, तस्य विधानसामथ्र्यात्प्रोक्ताल्लुह् नेति॥ \र्\निति तत्त्वबोधिन्यां समाप्ता शैषिकाः॥

Satishji's सूत्र-सूचिः

TBD.