Table of Contents

<<4-3-131 —- 4-3-133>>

4-3-132 कौपिञ्जलहासितपदादण्

प्रथमावृत्तिः

TBD.

काशिका

कौपिञ्जलहास्तिपदशब्दाभ्यम् अण् प्रत्ययो भवति तस्य इदम् इत्येतस्मिन् विषये। गोत्रवुञो ऽपवादः, गोत्राधिकारात्। कौपिञ्जलः। हास्तिपदः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1491 कौपिञ्जलहास्ति। `कुपिञ्जलस्यापत्य'मित्यनन्तरम् `इत्यर्थे' इति शेषः। इहेति। अस्मिन् वार्तिके कौपिञ्जलेति निर्देशादत इञं बाधित्वा अणित्यर्थः। तदन्तादिति। अणन्तात् `तस्येद'मित्यर्थे अनेन [सूत्रेण]पुनरणित्यर्थः। हस्तिपादस्येति। हस्तिन इव पादौ अस्येति विग्रहः `पादस्य लोप' इति न भवति, `अहस्त्यादिभ्य' इति प्रतिषेधात्। हस्तिपादस्यापत्यं हास्तिपदः। अत इञं बाधित्वा अत एव निपातनागदण्, पद्भावश्च। हास्तिपदस्यायमित्यर्थे अनेन अणिति भावः। होत्रवुञो।ञपवादः। आथर्वणिकस्येकलोपश्च। इदं सूत्रमिति कैयटः। `वार्तिक'मित्यन्ये। अण् स्यादिति। आथर्वणिकशब्दात्तस्येदमित्यर्थे अम् स्यात्। प्रकृतेरिकस्य लोपश्चेत्यर्थः।

तत्त्वबोधिनी

1160 इहैव निपातनादिति। हस्तिनः पाद इव पादो यस्य हस्तिपादः। पादस्य लोपो न भवति, `अहस्त्यादिभ्य'इति वचनात्। तदाह–हस्तिपादस्येति। हास्तिपद इति। अस्मादेव निपातनादण् पद्भावश्चेति भावः।

Satishji's सूत्र-सूचिः

TBD.