Table of Contents

<<4-3-130 —- 4-3-132>>

4-3-131 रैवतिकाऽदिभ्यश् छः

प्रथमावृत्तिः

TBD.

काशिका

दैवतिकाऽदिभ्यः छः प्रतयो भवति तस्य इदम् इत्येतस्मिन् विषये। गोत्रप्रत्ययान्ता एते, ततः पूर्वेण वुञि प्राप्ते छविधानार्थं वचनम्। रैवतिकीयः। स्वपिशीयः। रैवतिक। स्वापिशि। क्षैमवृद्धि। गौरग्रीवि। औदमेयि। औदवाहि। बैजवापि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1490 रैवतिकादिभ्यश्छः। तस्येदमित्यर्थे इति। शेषपूरणम्। वुञ इति। गोत्रत्वलक्षणबुञोऽपवाद इत्यर्थः। रैवातिकीयमिति। रेवत्या अपत्यं रैवतिकः। `रैवत्यादिभ्यष्ठक्'। रैवतिकस्येदमिति विग्रहः। वैजवापीयमिति। वीजवापस्यापत्यं वैजवापिः, तस्येदमिति विग्रहः।

तत्त्वबोधिनी

1159 रैवतिकादिभ्यश्छः। रैवतिकशब्दो रेवत्यादिभ्यष्ठगितिठगन्तः। रैवतिक औदमेथि (घि), वैजवापीत्यादि रेवतिकादयोऽमी गोत्रप्रत्ययान्तास्ततः पूर्वेण वुञि प्राप्ते छविधानार्थमिदमित्याह—वुञोऽपवाद इति। अत इञमाशङ्क्याह–।

Satishji's सूत्र-सूचिः

TBD.