Table of Contents

<<4-3-129 —- 4-3-131>>

4-3-130 न दण्डमाणवान्तेवासिषु

प्रथमावृत्तिः

TBD.

काशिका

दण्डप्रधाना मानवाः दण्डमाणवाः, अन्तेवासिनः शिष्याः। तेष्वभिधेयेषु वुञ् प्रत्ययो न भवति। गोत्रग्रहणम् इह अनुवर्तते, तेन वुञ्प्रतिषेधो विज्ञायते। गौकक्षाः दण्डमाणवाः अन्तेवासिनो वा। दाक्षाः। माहकाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1489 न दण्ड। दण्डमाणवाश्च अन्तेवासिनश्च तेष्विति द्वन्द्वः। दाक्षा इति। दक्षस्यापत्यं दाक्षिः, तस्येमे दण्डमाणवाः, शिष्या वेत्यर्थे गोत्रत्वलक्षणो वुञ् न भवति, किंत्वौत्सर्गिकोऽणेव।

तत्त्वबोधिनी

1158 न दण्ड।`तस्येदमि'त्यनुवर्तते। तेषु शिष्यषु चेति। `प्रत्ययार्थविशेषणेष्वि'ति शेषः। दाक्षा इति। `इञश्चे'त्यण्।

Satishji's सूत्र-सूचिः

TBD.