Table of Contents

<<4-3-128 —- 4-3-130>>

4-3-129 छन्दोगाउक्थिकयाज्ञिकबह्वृचनटाज् ञ्यः

प्रथमावृत्तिः

TBD.

काशिका

सङ्घादयो निवृत्ताः, सामान्येन विवानम्। छन्दोगाऽदिभ्यः शब्देभ्यो ञ्यः प्रत्ययो भवति तस्य इदम् इत्येतस्मिन् विषये। वुञणोरपवादः। चरणाद् धर्माम्नाययोः, तत्साहचर्यान् नटशब्दादपि धर्माम्नाययोरेव भवति। छन्दोगानां धर्मो वा आम्नायो वा छन्दोग्यम्। औक्थिक्यम्। याज्ञिक्यम्। बाह्वृच्यम्। नाट्यम्। अन्यत्र छान्दोगं कुलम् इत्यादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1488 छन्दोगौक्थिक। सङ्घादयो निवृत्ताः। छन्दोगादीनां चरणत्वात् धर्माम्नाययोरिति संबध्यते। छन्दोग, औक्थिक, याज्ञिक, बद्वृच, नट-एभ्यो धर्मे आम्नाये च इदंत्वेन विवक्षिते ञ्यः स्यादित्यर्थः। ननु नटस्य अचरणत्वात्तत्र धर्माम्नाययो कथमन्वय इत्याशङ्कते–चरणाद्धर्माम्नाययोरित्युक्तमिति। `यद्यपी'ति शेषः। परिहरति- तत्साहचर्यादिति। तथापि छन्दोगादिसाहचर्यान्नटशब्दादपि धर्माम्नाययोरेव प्रत्यय इत्यर्थः।

तत्त्वबोधिनी

1157 छन्दोगौक्थिक। सङ्घादयो निवृत्ताः। एभ्यो ञ्यः स्यात्तस्येदमित्यर्थे। चरणशब्देभ्यो बुञोऽपवादः, नटात्त्वौत्सर्गिकस्याऽणः। `धर्माम्नाययो'रित्युक्तेर्नेह–छान्दोगं कुलमित्यादि।

Satishji's सूत्र-सूचिः

TBD.