Table of Contents

<<4-3-127 —- 4-3-129>>

4-3-128 शाकलाद् वा

प्रथमावृत्तिः

TBD.

काशिका

शाकलशब्दात् सङ्घादिषु प्रत्ययार्थविशेषनेषु वा अण्प्रत्ययो भवति तस्य इदम् इत्येतस्मिन् विषये। वुञो ऽपवादः। शाकलेन प्रोक्तम् अधीयते शाकलाः। तेषां सङ्घः शाकलः, शाकलकः। शाकलो ऽङ्कः, शाकलको ऽङ्कः। शाकलं लक्षणम्, शाकलकं लक्षणम्। शाकलो घोषः, शाकलको घोषः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1487 शाकलाद्वा। शाकलेनेति। शकलशब्दात्प्रोक्ताणन्तादध्येतृप्रत्ययस्य लुकि शाकलशब्दात् `गोत्रचरणा' दिति धर्माम्नाययोर्वुञोऽपवादोऽण्। तदभावे वुञ्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.