Table of Contents

<<4-3-121 —- 4-3-123>>

4-3-122 पत्रपूर्वा दञ्

प्रथमावृत्तिः

TBD.

काशिका

पतन्ति तेन इति पत्रम् अश्वादिकं वाहनम् उच्यते। तत्पूर्वाद् रथशब्दातञ् प्रत्ययो भवति तस्य इदम् इत्येतस्मिन् विषये। पूर्वस्य यतो ऽपवादः। आश्वरथं चक्रम्। औष्ट्ररथम्। गार्दभरथम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1481 पत्रपूर्वादञ्। रथादित्येव। पत्रं वाहनमिति। `पत्रं वाहनपक्षयो'रिति कोशः।

तत्त्वबोधिनी

1155 पत्त्रपूर्वादञ्। पूर्वस्य यतोऽपवादः। पत्रमिति। पतन्त्यनेनेति विग्रहे `दाम्नि'त्यादिना ष्ट्रन्। अ\उfffदारथस्येदमिति। अ\उfffदायुक्तो रथोऽ\उfffदारथस्तस्याङ्गमित्यर्थः। पत्राध्वर्यु। अणोऽपवादः। पत्त्राद्वाह्र इति। इह पत्त्रेत्यर्थग्रहणे, इतरोयस्तु स्वरूपग्रहणे व्याख्यानमेव शरणम्।

Satishji's सूत्र-सूचिः

TBD.